सूत्रम्
शिखाया वलच्॥ ४।२।८८
काशिका-वृत्तिः
शिखाया वलच् ४।२।८९
शिखाशब्दात् वलच् प्रत्ययो भवति चातुरर्थिकः। यथासम्भवम् अर्थसम्बन्धः। शिखावलं नाम नगरम्। मतुप्प्रकरणे ऽपि शिखाया वलचं वक्ष्यति, तददेशार्थं वचनम्।
लघु-सिद्धान्त-कौमुदी
शिखाया वलच् १०७०, ४।२।८८
शिखावलः॥
लघु-सिद्धान्त-कौमुदी
इति चातुरर्थिकाः ४ १०७०, ४।२।८८
लघु-सिद्धान्त-कौमुदी
अथ शैषिकाः १०७०, ४।२।८८
न्यासः
शिखाया वलच्। , ४।२।८८
बाल-मनोरमा
शिखाया वलच् १२८९, ४।२।८८
शिखाया वलच्। निर्वृत्ताद्यर्थं सूत्रं, देशे तन्नाम्नि अणो बाधनार्थं च। "दन्तशिखात्संज्ञाया"मिति पञ्चमे वक्ष्यमाणं तु अदेशे।ञपि शिखावल इति रूपार्थछम्।
तत्त्व-बोधिनी
शिखाया वलच् १०३६, ४।२।८८
शिखायाः निर्वृत्ताद्यर्थे देशे तन्नाम्नयणो बाधनार्थं चेदम्। "दन्तशिखात्संज्ञाया"मिति पञ्चमे वक्ष्यमाणं त्वदेशेऽपि"शिखाबल"इति रूपसिद्ध्यर्थम्।